|
|
 |
 |
|
|
१४ अश्वमेधिकपर्व.jpg)
॥ श्रीः ॥
14.111. अध्यायः 111
Mahabharata - Ashvamedhika Parva - Chapter Topics
कृष्णेन युधिष्ठिरंप्रत्यग्निसृष्टिप्रकारकथनम्॥ 1 ॥ आहवनीयादित्वेन तद्विभागकथनपूर्वकं तत्तन्नामनिर्वचनम्॥ 2 ॥ तथा यज्ञाग्निहोत्रप्रशंसनम्॥ 3 ॥
Mahabharata - Ashvamedhika Parva - Chapter Text
युधिष्ठिर उवाच।
स्वभक्तस्य हृषीकेश धर्माधर्ममजानतः।
धर्मं पुण्यतमं देव पृच्छतः कथयस्व मे॥ 14-111-1(96475)
भगवानुवाच। 14-111-2x(7989)
यदेतदग्निहोत्रं वै सृष्टं वर्णत्रयस्य तु।
मन्त्रवद्यद्धुतं सम्यग्विधिना चाप्युपासितम्।
आहिताग्निं नयत्यूर्ध्वं सपत्नीकं सबान्धवम्॥ 14-111-2(96476)
युधिष्ठिर उवाच। 14-111-3x(7990)
कथं तद्ब्राह्मणैर्देव होतव्यं क्षत्रियैः कथम्।
वैश्यैर्वा देवदेवेश कथं वा सुहुतं भवेत्॥ 14-111-3(96477)
कस्मिन्काले कतं कस्य आधेयोऽग्निः सुरोत्तम।
आहितस्य कथं वाऽपि सम्यगाचरणं भवेत्॥ 14-111-4(96478)
कत्यग्नयः किमात्मानः स्थानं किं कस्य वा विभो।
कतरस्मिन्हुते स्थाने कं व्रजेदाग्निहोत्रिकः॥ 14-111-5(96479)
अग्निहोत्रनिमित्तं च किमुत्पन्नं पुराऽनघ।
कथमेवाथ हूयन्ते प्रीयन्ते च सुराः कथम्॥ 14-111-6(96480)
विधिवन्मन्त्रवत्कृत्वा पूजितास्त्वग्नयः कथम्।
कां गतिं वदतांश्रेष्ठ नयन्ति ह्यग्निहोत्रिणः॥ 14-111-7(96481)
दुर्हुताश्चापि भगवन्नविज्ञातास्त्रयोऽग्नयः।
किमाहिताग्नेः कुर्वन्ति दुश्चीर्णा वाऽपि केशव॥ 14-111-8(96482)
उत्सन्नाग्निस्तु पापात्मा कां योनिं देव गच्छति।
एतत्सर्वं समासेन भक्त्या ह्युपगतस्य मे।
वक्तुमर्हसि सर्वज्ञ सर्वाधिकं नमोस्तु ते॥ 14-111-9(96483)
भगवानुवाच। 14-111-10x(7991)
शृणु राजन्महापुण्यमिदं धर्मामृतं परम्।
यत्तु तारयते युक्तान्ब्राह्मणानग्निहोत्रिणः॥ 14-111-10(96484)
ब्र्हमित्वेनासृजं लोकानहमादौ महाद्युते।
सृष्टोऽग्निर्मुखतः पूर्वं लोकानां हितकाम्यया॥ 14-111-11(96485)
यस्मादग्रे स भूतानां सर्वेषां निर्मितो मया।
तस्मादग्नीत्यभिहितः पुराणज्ञैर्मनीषिभिः॥ 14-111-12(96486)
यस्मात्तु सर्वकृत्येषु पूर्वमस्मै प्रदीयते।
आहुतिर्दीप्यमानाय तस्मादग्नीति कथ्यते॥ 14-111-13(96487)
यस्माच्च तु नयत्यग्रां गतिं विप्रान्सुपूजितः।
यस्माच्च नयनाद्राजन्देवेष्वग्नीति कथ्यते॥ 14-111-14(96488)
तस्माच्च दुर्हुतः सोयमलं भक्षयितुं क्षणात्।
यजमानं नरश्रेष्ठ क्रव्यादोऽग्निस्ततः स्मृतः॥ 14-111-15(96489)
सर्वभूतात्मको राजन्देवानामेष वै मुखम्।
प्रथमं मन्मुखात्सृष्टो लोकार्थे पचनः प्रभुः॥ 14-111-16(96490)
सृष्टमात्रो जगत्सर्वमत्तुमैच्छत्पुरा खलु।
ततः प्रशमितः सोग्निरूपास्यैव मया पुरा॥ 14-111-17(96491)
सततोपासनात्सोयमौपासन इति स्मृतः॥ 14-111-18(96492)
आहुतिः सर्वमाख्याति तस्मिन्वसति सोनलः।
आवसथ्य इति ख्यातस्तेनासौ ब्रह्मवादिभिः॥ 14-111-19(96493)
तस्मात्पञ्च महायज्ञा वर्तन्ते यस्य धर्मतः।
सोममण्डलमध्येन गतिस्तस्य द्विजन्मनः॥ 14-111-20(96494)
ते च सप्तर्षयः सिद्धाः संयतेन्द्रियबुद्धयः।
गता ह्यमरसायुज्यं ते ह्यग्न्यर्चनतत्पराः॥ 14-111-21(96495)
अपरे चावसथ्यं च पचनाग्निं प्रचक्षते।
तस्मिन्पञ्च महायज्ञा वैश्वदेवश्च वर्तते॥ 14-111-22(96496)
स्थलीपाकं च गार्हं च सर्वे चास्मिन्प्रतिष्ठिताः।
गृह्यकर्मवहो यस्मात्तस्माद्गृहपतिस्तु सः॥ 14-111-23(96497)
औपासनं चावसथ्यं सभ्यं पचनपावकम्।
आहुर्ब्रह्मविदः केचिन्मतमेतन्ममापि च॥ 14-111-24(96498)
अग्निहोत्रप्रकारं च शृणु राजन्समाहितः।
त्रयाणां गुणनामानां वह्नीनामुच्यते मया॥ 14-111-25(96499)
गृहाणां हि पतित्वं हि गृहपत्यमिति स्मृतम्।
गृहपत्यं तु यस्यासीत्तत्तस्माद्गार्हपत्यता॥ 14-111-26(96500)
यजमानं तु यस्मात्तु दक्षिणां तु गतिं नयेत्।
दक्षिणाग्निं तमाहुस्ते दक्षिणायतनं द्विजाः॥ 14-111-27(96501)
आहुतिः सर्वमाख्याति हव्यं वै वहनं स्मृतम्।
सर्वहव्यवहो वह्निर्गतश्चाहवनीयताम्॥ 14-111-28(96502)
यं चाक्सथ्यं जुहुयान्मूलाग्निं विधिवद्द्विजः।
आवसथ्यं तु तं चाग्निं पचनाग्निं प्रचक्षते॥ 14-111-29(96503)
तेषां स भागतो वह्निः सभ्य इत्यभिधीयते।
आवतथ्यस्तु यो वह्निः प्रथमः स प्रजापतिः॥ 14-111-30(96504)
ब्रह्मा च गार्हपत्योऽग्निस्तस्मिन्नेव हि सोभवत्।
दक्षिणाग्निस्त्वयं रुद्रः क्रोधात्मा चण्ड एव सः॥ 14-111-31(96505)
अहमाहवनीयोऽग्निराहोमाद्यस्य वै मुखे।
सभ्योऽग्निः पञ्चमो यस्तु स्कन्द एव नराधिप॥ 14-111-32(96506)
पृथिवी गार्हपत्योऽग्निरन्तरिक्षं च दक्षिणः।
स्वर्गमाहवनीयोऽग्निरेवमग्नित्रयं स्मृतम्॥ 14-111-33(96507)
वृत्तश्च गार्हपत्योऽग्निर्यस्माद्वृत्ता च मेदिनी।
अर्धचन्द्राकृतिस्तं वै दक्षिणाग्निस्तथा भवेत्॥ 14-111-34(96508)
चतुरश्रं ततः स्वर्गं निर्मलं तु निरामयम्।
तस्मादाहवनीयोऽग्निश्चतुरश्रो भवेन्नृप॥ 14-111-35(96509)
जुहुयाद्गार्हपत्यं यो भुवं जयति स द्विजः।
जुहोति दक्षिणं यस्तु स जयत्यन्तरिक्षकम्॥ 14-111-36(96510)
पृथिवीमन्तरिक्षं च दिवं ऋषिगणैः सह।
जयत्याहवनीयं यो जुहुयाद्भक्तिमान्नरः॥ 14-111-37(96511)
आभिमुख्येन होमस्तु यस्य यज्ञेषु वर्तते।
तेनाप्याहवनीयत्वं गतो वह्निर्महाद्युतिः॥ 14-111-38(96512)
आहोमादग्निहोत्रेषु यज्ञैर्वा यत्र सर्वशः।
यस्मात्तस्मात्प्रवर्तन्ते ततो ह्याहवनीयता॥ 14-111-39(96513)
यस्त्वावसथ्यं जुहुयान्मूलाग्निं विधिवद्द्विजः।
स तु सप्तर्षिलोकेषु सपत्नीकः प्रमोदते॥ 14-111-40(96514)
इष्टो भवति सर्वाग्नेरग्निहोत्रं च तद्भवेत्।
त्राणाद्वै यजमानस्य ह्यग्निहोत्रमिति स्मृतम्॥ 14-111-41(96515)
होइज्येषु विषादो वै विषादो दुःखमुच्यते।
दुःखं तापत्रयं प्रोक्तं तापं हि नरकं विदुः॥ 14-111-42(96516)
आध्यात्मिकं चाधिदैवमाधिभौतिकमेव च।
एतत्तापत्रयं प्रोक्तमात्मविद्भिर्नराधिप॥ 14-111-43(96517)
यस्माद्वै त्रायते दुःखाद्यजमानं हुतोऽनलः।
तस्मात्तु विधिवत्प्रोक्तमग्निहोत्रमिति श्रुतौ॥ 14-111-44(96518)
तदग्निहोत्रं सृष्टं वै ब्रह्मणा लोककर्तृणा।
वेदाश्चाप्यग्निहोत्रं तु जज्ञिरे स्वयमेव तु॥ 14-111-45(96519)
अग्निहोत्रफला दारा दत्तभुक्तफलं धनम्॥
रतिपुत्रफला दारा दत्तभुक्तफलं धनम्॥ 14-111-46(96520)
त्रिवेदमन्त्रसंयोगादग्निहोत्रं प्रवर्तते।
ऋग्यजुःसामभिः पुण्यैः स्थाप्यते सूत्रसंयुतैः॥ 14-111-47(96521)
वसन्ते ब्राह्मणस्य स्यादाधेयोऽग्निर्नराधिप।
वसन्तो ब्राह्मणो ज्ञेयो वेदयोनिः स उच्यते॥ 14-111-48(96522)
अग्न्याधेयं तु येनाथ वसन्ते क्रियतेऽनघ।
तस्य श्रीर्बह्मवृद्धिश्च ब्राह्मणस्य विवर्धते॥ 14-111-49(96523)
क्षत्रियस्याग्निराधेयो ग्रीष्मे श्रेष्ठः स वै नृप।
येनाधानं तु वै ग्रीष्मे क्रियते तस्य वर्धते।
श्रीः प्रजाःक पशवश्चैव वित्तं तेजो बलं यशः॥ 14-111-50(96524)
शरदृतौ तु वैश्यस्य ह्याधानीयो हुताशनः।
शरद्रात्रं स्वयं वैश्यो वैश्ययोनिः स उच्यते॥ 14-111-51(96525)
शरद्याधानमेवं वै क्रियते येन पाण्डव।
तस्यापि श्रीः प्रजाऽऽयुश्च पशवोऽर्थश्च वर्धते॥ 14-111-52(96526)
पशवः सर्व एवैते त्रिभिः सर्वैरलङ्कृताः।
अग्निहोत्रा ह्यवर्तन्ते तैरेव ध्रियते जगत्॥ 14-111-53(96527)
ग्राम्यारण्याश्च पशवो पृक्षाश्चैव तृणानि च।
फलान्योषधयश्चापि अग्निहोत्रकृते हविः॥ 14-111-54(96528)
रसाः स्नेहास्तथा गन्धा रत्नानि मणयस्तथा।
काञ्चनानि च लोहानि ह्यग्निहोत्रकृतेऽभवन्॥ 14-111-55(96529)
आयुर्वेदो धनुर्वेदो मीमांसा न्यायविस्तरः।
धर्मशास्त्रं च तत्सर्वमग्निहोत्रकृते कृतम्॥ 14-111-56(96530)
छन्दः शिक्षा च कल्पश्च तथा व्याकरणानि च।
शास्त्रं ज्योतिर्निरुक्तं चाप्यग्निहोत्रकृते कृतम्॥ 14-111-57(96531)
इतिहासपुराणं च गाथाश्चोपनिषत्तथा।
आथर्वणानि कर्माणि चाग्निहोत्रकृते कृतम्॥ 14-111-58(96532)
यच्चैतस्यां पृथिव्यां वै किंचिदस्ति चराचरम्।
तत्सर्वमग्निहोत्रस्य कृते सृष्टं स्वयंभुवा॥ 14-111-59(96533)
अग्निहोत्रस्य दर्शस्य पूर्णमासस्य चाप्यथ।
युपेष्टिपशुबन्धानां सोमपानक्रियावताम्॥ 14-111-60(96534)
तिथिनक्षत्रयोगानां मुहूर्तकरणात्मकम्।
कालस्य वेदनार्थं तु ज्योतिर्ज्ञानं पुराऽनघ॥ 14-111-61(96535)
ऋग्यजुः साममन्त्राणां श्लोकतत्वार्थचिन्तनात्।
प्रत्यापत्तिविकल्पानां छन्दोज्ञानं प्रल्पितम्॥ 14-111-62(96536)
वर्णाक्षरपदार्थानां सन्धिलिङ्गं प्रकीर्तितम्।
नामधातुविवेकार्थं पुरा व्याकरणं स्मृतम्॥ 14-111-63(96537)
यूपवेद्यध्वरार्थं तु प्रोक्षणश्रवणाय तु।
यज्ञदैवतयोगार्थं शिक्षाज्ञानं प्रकल्पितम्॥ 14-111-64(96538)
यज्ञपात्रपवित्रार्थं द्रव्यसंभारणाय च।
सर्वयज्ञविकल्पाय पुराकल्पं प्रकल्पितम्॥ 14-111-65(96539)
नामधातुविकल्पानां तत्वार्थनियमाय च।
सर्ववेदनिरुक्तानां निरुक्तमृषिभिः कृतम्॥ 14-111-66(96540)
वेद्यर्थं पृथिवी सृष्टा संभारार्थ तथैव च।
इध्मार्थमथ यूपार्थं ब्रह्मा चक्रे वनस्पतिम्॥ 14-111-67(96541)
ग्राम्यारण्याश्च पशवो जायन्ते यज्ञकारणात्।
मन्त्राणां विनियोगं च प्रोक्षितं श्रपणं तथा॥ 14-111-68(96542)
अनुयाजप्रयाजाश्च मरुतां शंसिनस्तथा।
औद्गात्रं चैव साम्नां वै प्रतिप्रस्थानमेव च॥ 14-111-69(96543)
विष्णुक्रमाणां क्रमणं दक्षिणावभृथं तथा।
त्रिकासमर्चनं चैव स्यानेषूपहृतं तथा॥ 14-111-70(96544)
देवताग्रहणं मोक्षं हविषां श्रपणं तथा।
नावबुद्ध्यन्ति ये विप्रा निन्दन्ति च पशोर्वधम्।
ते यान्ति नरकं घोरं रौरवं तमसाऽऽवृतम्॥ 14-111-71(96545)
शतवर्षसहस्राणि तत्र स्थित्वा नराधमाः।
कृमिर्भिर्भक्ष्यमाणाश्च तिष्ठेयुः पूयशोणिते॥ 14-111-72(96546)
वृक्षा यूपत्वमिच्छन्ति पशुत्वं पशवस्तथा।
तृणानीच्छन्ति बर्हिष्ट्वमोषध्यश्च हविष्यताम्।
सोमत्वं च लताः सर्वा वेदित्वं च वसुंधर॥ 14-111-73(96547)
यस्मात्पशुत्वमिच्छन्ति पशवः स्वर्गलिप्सया।
तस्मात्पशुवधे हिंसा नास्ति यज्ञेषु पाण्डव॥ 14-111-74(96548)
यूपास्तन्मन्त्रसंस्कारैर्दर्भाश्च पशवस्तथा।
यजमानेन सहिताः स्वर्गं यान्ति नरेश्वर॥ 14-111-75(96549)
यावत्कालं हि यज्वा वै स्वर्गलोके महीयते।
तावत्कालं प्रमोदन्ते पशवो ह्यध्वरे हताः॥ 14-111-76(96550)
अहिंसा वैदिकं कर्म ब्रह्मकर्मेति तत्कृतम्।
वेदोक्तं ये न कुर्वन्ति हिंसाबुद्ध्या क्रतून्द्विजाः।
सद्यः शूद्रत्वामायान्ति प्रेत्य चण्डालतामपि॥ 14-111-77(96551)
गावो यज्ञार्थमुत्पन्ना दक्षिणार्थं तथैव च।
सुवर्णं रजतं चैव पात्रक्रुभार्थमेव च॥ 14-111-78(96552)
दर्भाः संस्तरणार्तं तु रक्षसां रक्षणाय च।
पजनार्थं द्विजाः सृष्टास्तारका दिवि देवताः॥ 14-111-79(96553)
क्षत्रिया रक्षणार्थं तु वैश्या वार्तानिमित्ततः।
शुश्रूषार्थं त्रयाणां वै शूद्राः सृष्टाः स्वयंभुवा॥ 14-111-80(96554)
एवमेतज्जगत्सर्वमग्निहोत्रकृते कृतम्।
नावबुध्यन्ति ये चैव नरास्तु तमसा वृताः॥ 14-111-81(96555)
ते यान्ति नरकं घोरं रौरवं नाम विश्रुतम्।
रौरवाद्विप्रयुक्तास्तु कृमियोनिं व्रजन्ति ते॥ 14-111-82(96556)
यथोक्तमग्निहोत्राणां शुश्रूषन्ति च ये द्विजाः।
तैर्दत्तं सहुतं चेष्टं दत्तमध्यापितं भवेत्॥ 14-111-83(96557)
एवमिष्टं च पूर्तं च यद्विप्रैः क्रियते नृप।
तत्सर्वं सम्यगाहृत्य चादित्ये स्थापयाम्यहम्॥ 14-111-84(96558)
मया स्थापितमादित्ये लोकस्य सुकृतं हि तत्।
धारयेद्यत्सहस्रांशुः सुकृतं ह्यग्निहोत्रिणाम्॥ 14-111-85(96559)
यावत्कालं तु तिष्ठन्ति लोके चाप्यग्निहोत्रिणः।
तावदेव हि पुण्येन दीप्यते रविणाऽम्बरे॥ 14-111-86(96560)
स्वर्गे स्वर्गं गतानां तु वीर्याद्भवति वीर्यवान्।
तत्र ते ह्युपभुञ्जन्ति ह्यग्निहोत्रस्य तत्फलम्।
समानरूपा देवानां तिष्ठन्त्याबूतसंप्लवम्॥ 14-111-87(96561)
वृथाऽग्निना च ये केचिद्दह्यन्ते ह्यग्निहोत्रिणः।
न तेऽग्निहोत्रिणां लोके मानसाऽपि व्रजन्ति ते॥ 14-111-88(96562)
वीरघ्रास्तु दुराचारा दरिद्रास्तु नराधमाः।
विकला व्याधिताश्चापि जायन्ते शूद्रयोनिषु॥ 14-111-89(96563)
तस्मादप्रोषितैर्नित्यमग्निहोत्रं द्विजातिभिः।
होतव्यं विधिवद्राजन्नूर्ध्वामिच्छन्ति ये गतिम्॥ 14-111-90(96564)
आत्मवन्नावमन्तव्यमग्निहोत्रं युधिष्ठिर।
न त्याज्यं क्षणिमप्येतदग्निहोत्रं युधिष्ठिर॥ 14-111-91(96565)
वृद्धत्वेऽप्यग्निहोत्रं ये गृह्णन्ति विधिवद्द्विजाः।
शूद्रान्नाद्विरता दान्ताः संयतेन्द्रियबुद्धयः॥ 14-111-92(96566)
पञ्चयज्ञपरा नित्यं लोभक्रोधविवर्जिताः।
द्विकालमतिथींश्चैव पूजयन्ति च भक्तितः॥ 14-111-93(96567)
तेऽपि सूर्योदयप्रख्यैर्विमानैर्वायुवेगिभिः।
मम लोके प्रमोदन्ते दृष्ट्वा मां च युधिष्ठिर॥ 14-111-94(96568)
मन्वन्तरं च तत्रैकं मोदिता द्विजसत्तमाः।
इह मानुष्यके लोके जायन्ते द्विजसत्तमाः॥ 14-111-95(96569)
बालाहिताग्रयो ये च शूद्रान्नाद्विरताः सदा।
क्रोधलोभविनिर्मुक्ताः प्रातस्स्नानपरायणाः।
यथोक्तमग्निहोत्रं वै जुह्वते विजितेन्द्रियाः॥ 14-111-96(96570)
आतिथेयाः सदा सौम्या द्विकालं मत्परायणाः।
ते यान्त्यपुनरावृत्तिं भित्त्वा चादित्यमण्डलम्॥ 14-111-97(96571)
मम लोकं सपत्नीका यानैः सूर्योदयप्रभैः।
तत्र बालार्कसङ्काशाः कामगाः कामरूपिणः॥ 14-111-98(96572)
ऐश्वर्यगुणसंपन्नाः क्रीडन्ति च यथासुखम्।
इत्येषामाहिताग्नीनां विभूतिः पाण्डुनन्दन॥ 14-111-99(96573)
श्रुतिं केचिन्निन्दमानाः श्रुतिं दूष्यन्त्यबुद्धयः।
प्रमाणं न च कुर्वन्ति ये यान्तीहापि दुर्गतिम्। 14-111-100(96574)
प्रमाणमितिहासं च वेदान्कुर्वति ये द्विजाः।
ते यान्त्यमरसायुज्यं नित्यमास्तिक्यबुद्धयः॥ ॥ 14-111-101(96575)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि एकादशाधिकशततमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|